॥श्रीमद्भगवद्गीता पदच्छेद॥
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ प्रथमः अध्यायः । अर्जुन-विषाद योगः ।
धृतराष्ट्रः उवाच ।
धर्म-क्षेत्रे कुरु-क्षेत्रे समवेताः युयुत्सवः ।
मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय ॥१॥
सञ्जयः उवाच ।
दृष्ट्वा तु पाण्डव-अनीकम् व्यूढम् दुर्योधनः तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥२॥
पश्य एताम् पाण्डु-पुत्राणाम् आचार्य महतीम् चमूम् ।
व्यूढाम् द्रुपद-पुत्रेण तव शिष्येण धीमता ॥३॥
अत्र शूराः महा-इषु-आसाः भीम-अर्जुन-समाः युधि ।
युयुधानः विराटः च द्रुपदः च महारथः ॥४॥
धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् ।
पुरुजित् कुन्तिभोजः च शैब्यः च नर-पुङ्गवः ॥५॥
युधामन्युः च विक्रान्तः उत्तमौजाः च वीर्यवान् ।
सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः ॥६॥
अस्माकम् तु विशिष्टाः ये तान् निबोध द्विज-उत्तम ।
नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥
भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः ।
अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च ॥८॥
अन्ये च बहवः शूराः मदर्थे त्यक्त-जीविताः ।
नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥९॥
अपर्याप्तम् तत् अस्माकम् बलम् भीष्म-अभिरक्षितम् ।
पर्याप्तम् तु इदम् एतेषाम् बलम् भीम-अभिरक्षितम् ॥१०॥
अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः ।
भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ॥११॥
तस्य सञ्जनयन् हर्षम् कुरु-वृद्धः पितामहः ।
सिंहनादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान् ॥१२॥
ततः शङ्खाः च भेर्यः च पणव-आनक-गोमुखाः ।
सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् ॥१३॥
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥
पाञ्चजन्यम् हृषीकेशः देवदत्तम् धनञ्जयः ।
पौण्ड्रम् दध्मौ महा-शङ्खम् भीम-कर्मा वृक-उदरः ॥१५॥
अनन्तविजयम् राजा कुन्ती-पुत्रः युधिष्ठिरः ।
नकुलः सहदेवः च सुघोष-मणि-पुष्पकौ ॥१६॥
काश्यः च परम-इषु-आसः शिखण्डी च महारथः ।
धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥१७॥
द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी-पते ।
सौभद्रः च महा-बाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥१८॥
सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत् ।
नभः च पृथिवीम् च एव तुमुलः अभ्यनुनादयन् ॥१९॥
अथ व्यवस्थितान् दृष्ट्वा धार्त्रराष्ट्रान् कपि-ध्वजः ।
प्रवृत्ते शस्त्र-सम्पाते धनुः उद्यम्य पाण्डवः ॥२०॥
हृषीकेशम् तदा वाक्यम् इदम् आह महीपते ।
अर्जुनः उवाच ।
सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युत ॥२१॥
यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान् ।
कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥२२॥
योत्स्यमानान् अवेक्षे अहम् ये एते अत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः ॥२३॥
सञ्जयः उवाच ।
एवम् उक्तः हृषीकेशः गुडाकेशेन भारत ।
सेनयोः उभयोः मध्ये स्थापयित्वा रथ-उत्तमम् ॥२४॥
भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम् ।
उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति ॥२५॥
तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा ॥२६॥
श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि ।
तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥२७॥
कृपया परयाविष्टो विषीदन् इदम् अब्रवीत् ।
अर्जुनः उवाच ।
दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम् ॥२८॥
सीदन्ति मम गात्राणि मुखम् च परिशुष्यति ।
वेपथुः च शरीरे मे रोम-हर्षः च जायते ॥२९॥
गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते ।
न च शक्नोमि अवस्थातुम् भ्रमति इव च मे मनः ॥३०॥
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे ॥३१॥
न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च ।
किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा ॥३२॥
येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च ।
ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च ॥३३॥
आचार्याः पितरः पुत्राः तथा एव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा ॥३४॥
एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन ।
अपि त्रैलोक्य-राज्यस्य हेतोः किम् नु महीकृते ॥३५॥
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन ।
पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ॥३६॥
तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव ॥३७॥
यदि अपि एते न पश्यन्ति लोभ-उपहत-चेतसः ।
कुल-क्षय-कृतम् दोषम् मित्र-द्रोहे च पातकम् ॥३८॥
कथम् न ज्ञेयम् अस्माभिः पापात् अस्मान् निवर्तितुम् ।
कुल-क्षय-कृतम् दोषम् प्रपश्यद्भिः जनार्दन ॥३९॥
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः ।
धर्मे नष्टे कुलम् कृत्स्नम् अधर्मः अभिभवति उत ॥४०॥
अधर्म-अभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ॥४१॥
सङ्करः नरकाय एव कुल-घ्नानाम् कुलस्य च ।
पतन्ति पितरः हि एषाम् लुप्त-पिण्ड-उदक-क्रियाः ॥४२॥
दोषैः एतैः कुल-घ्नानाम् वर्ण-सङ्कर-कारकैः ।
उत्साद्यन्ते जाति-धर्माः कुल-धर्माः च शाश्वताः ॥४३॥
उत्सन्न-कुल-धर्माणाम् मनुष्याणाम् जनार्दन ।
नरके अनियतम् वासः भवति इति अनुशुश्रुम ॥४४॥
अहो बत महत् पापम् कर्तुम् व्यवसिता वयम् ।
यत् राज्य-सुख-लोभेन हन्तुम् स्वजनम् उद्यताः ॥४५॥
यदि माम् अप्रतीकारम् अशस्त्रम् शस्त्र-पाणयः ।
धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत् ॥४६॥
सञ्जयः उवाच ।
एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ-उपस्थे उपाविशत् ।
विसृज्य सशरम् चापम् शोक-संविग्न-मानसः ॥४७॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे
अर्जुन-विषाद योगः नाम प्रथमः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ द्वितीयः अध्यायः । साङ्ख्य-योगः ।
सञ्जयः उवाच ।
तम् तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम् ।
विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदनः ॥१॥
श्रीभगवान् उवाच ।
कुतः त्वा कश्मलम् इदम् विषमे समुपस्थितम् ।
अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ॥२॥
क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते ।
क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परन्तप ॥३॥
अर्जुनः उवाच ।
कथम् भीष्मम् अहम् सङ्ख्ये द्रोणम् च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजा-अर्हौ अरि-सूदन ॥४॥
गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके ।
हत्वा अर्थकामान् तु गुरून् इह एव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥५॥
न च एतत् विद्मः कतरत् नः गरीयः यद्वा जयेम यदि वा नः जयेयुः ।
यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥
कार्पण्य-दोष-उपहत-स्वभावः पृच्छामि त्वाम् धर्म-सम्मूढ-चेताः ।
यच्छ्रेयःस्यात् निश्चितम् ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७॥
न हि प्रपश्यामि मम अपनुद्यात् यत् शोकम् उच्छोषणम् इन्द्रियाणाम् ।
अवाप्यभूमौअसपत्नम् ऋद्धम् राज्यम् सुराणाम्अपि चआधिपत्यम् ॥८॥
सञ्जयः उवाच ।
एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तपः ।
न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह ॥९॥
तम् उवाच हृषीकेशः प्रहसन् इव भारत ।
सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः ॥१०॥
श्रीभगवान् उवाच ।
अशोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादान् च भाषसे ।
गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः ॥११॥
न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः ।
न च एव न भविष्यामः सर्वे वयम् अतः परम् ॥१२॥
देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा ।
तथा देहान्तर-प्राप्तिः धीरः तत्र न मुह्यति ॥१३॥
मात्रा-स्पर्शाः तु कौन्तेय शीत-उष्ण-सुख-दुःख-दाः ।
आगम अपायिनः अनित्याः तान् तितिक्षस्व भारत ॥१४॥
यम् हि न व्यथयन्ति एते पुरुषम् पुरुष-ऋषभ ।
सम-दुःख-सुखम् धीरम् सः अमृतत्वाय कल्पते ॥१५॥
न असतः विद्यते भावः न अभावः विद्यते सतः ।
उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व-दर्शिभिः ॥१६॥
अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम् ।
विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति ॥१७॥
अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः ।
अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत ॥१८॥
यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम्
उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते ॥१९॥
न जायते म्रियते वा कदाचित् न अयम् भूत्वा भविता वा न भूयः ।
अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे ॥२०॥
वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम् ।
कथम् सः पुरुषः पार्थ कम् घातयति हन्ति कम् ॥२१॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि ।
तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥२२॥
न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः ।
न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः ॥२३॥
अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च ।
नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः ॥२४॥
अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते ।
तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि ॥२५॥
अथ च एनम् नित्य-जातम् नित्यम् वा मन्यसे मृतम् ।
तथा अपि त्वम् महा-बाहो न एनम् शोचितुम् अर्हसि ॥२६॥
जातस्य हि ध्रुवः मृत्युः ध्रुवम् जन्म मृतस्य च ।
तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि ॥२७॥
अव्यक्त-आदीनि भूतानि व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनानि एव तत्र का परिदेवना ॥२८॥
आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अन्यः ।
आश्चर्यवत् चैनंअन्यःशृणोति श्रुत्वाअपिएनम् वेद न चैव कश्चित्॥२९॥
देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि ॥३०॥
स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि ।
धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते ॥३१॥
यत् ऋच्छया च उपपन्नं स्वर्ग-द्वारम् अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥३२॥
अथ चेत् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि ।
ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि ॥३३॥
अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् ।
सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते ॥३४॥
भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महारथाः ।
येषाम् च त्वम् बहु-मतः भूत्वा यास्यसि लाघवम् ॥३५॥
अवाच्य-वादान् च बहून् वदिष्यन्ति तव अहिताः ।
निन्दन्तः तव सामर्थ्यम् ततः दुःखतरम् नु किम् ॥३६॥
हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम् ।
तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥३७॥
सुख-दुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ ।
ततः युद्धाय युज्यस्व न एवम् पापम् अवाप्स्यसि ॥३८॥
एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम् शृणु ।
बुद्ध्या युक्तः यया पार्थ कर्म-बन्धम् प्रहास्यसि ॥३९॥
न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते ।
स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात् ॥४०॥
व्यवसाय-आत्मिका बुद्धिः एका इह कुरु-नन्दन ।
बहु-शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम् ॥४१॥
याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति अविपश्चितः ।
वेद-वाद-रताः पार्थ न अन्यत् अस्ति इति वादिनः ॥४२॥
काम-आत्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम् ।
क्रिया-विशेष-बहुलाम् भोग-ऐश्वर्य-गतिम् प्रति ॥४३॥
भोग-ऐश्वर्य-प्रसक्तानाम् तया अपहृत-चेतसाम् ।
व्यवसाय-आत्मिका बुद्धिः समाधौ न विधीयते ॥४४॥
त्रैगुण्य-विषयाः वेदाः निस्त्रैगुण्यः भवार्जुन ।
निर्द्वन्द्वः नित्य-सत्त्वस्थः निर्योगक्षेमः आत्मवान् ॥४५॥
यावान् अर्थः उदपाने सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥
कर्मणि एव अधिकारः ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि ॥४७॥
योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय ।
सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते ॥४८॥
दूरेण हि अवरम् कर्म बुद्धि-योगात् धनञ्जय ।
बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥४९॥
बुद्धि-युक्तः जहाति इह उभे सुकृत-दुष्कृते ।
तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥
कर्मजम् बुद्धि-युक्ताः हि फलम् त्यक्त्वा मनीषिणः ।
जन्म-बन्ध-विनिर्मुक्ताः पदम् गच्छन्ति अनामयम् ॥५१॥
यदा ते मोह-कलिलम् बुद्धिः व्यतितरिष्यति ।
तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च ॥५२॥
श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि ॥५३॥
अर्जुनः उवाच ।
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किम् प्रभाषेत किम् आसीत व्रजेत किम् ॥५४॥
श्रीभगवान् उवाच ।
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञः तदा उच्यते ॥५५॥
दुःखेषु अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।
वीत-राग-भय-क्रोधः स्थितधीः मुनिः उच्यते ॥५६॥
यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम् ।
न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥
यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः ।
इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥
विषयाः विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते ॥५९॥
यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६०॥
तानि सर्वाणि संयम्य युक्तः आसीत मत्परः ।
वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥
ध्यायतः विषयान् पुंसः सङ्गः तेषु उपजायते ।
सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते ॥६२॥
क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः ।
स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशात् प्रणश्यति ॥
राग-द्वेष-विमुक्तैः तु विषयान् इन्द्रियैः चरन् ।
आत्म-वश्यैः विधेय-आत्मा प्रसादम् अधिगच्छति ॥६४॥
प्रसादे सर्व-दुःखानाम् हानिः अस्य उपजायते ।
प्रसन्न-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते ॥६५॥
न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना ।
न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम् ॥६६॥
इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते ।
तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि ॥६७॥
तस्मात् यस्य महा-बाहो निगृहीतानि सर्वशः ।
इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥६८॥
या निशा सर्व-भूतानाम् तस्याम् जागर्ति संयमी ।
यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः ॥६९॥
आपूर्यमाणम् अचल-प्रतिष्ठम् समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत्कामाः यम् प्रविशन्ति सर्वे सः शान्तिम्आप्नोति न कामकामी ॥७०॥
विहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः ।
निर्ममः निरहङ्कारः सः शान्तिम् अधिगच्छति ॥७१॥
एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य विमुह्यति ।
स्थित्वा अस्याम् अन्तकाले अपि ब्रह्म-निर्वाणम् ऋच्छति ॥७२॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे साङ्ख्य-योगः नाम द्वितीयः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ तृतीयः अध्यायः । कर्म-योगः ।
अर्जुनः उवाच ।
ज्यायसी चेत् कर्मणः ते मता बुद्धिः जनार्दन ।
तत् किम् कर्मणि घोरे माम् नियोजयसि केशव ॥१॥
व्यामिश्रेण इव वाक्येन बुद्धिं मोहयसि इव मे ।
तत् एकं वद निश्चित्य येन श्रेयः अहम् आप्नुयाम् ॥२॥
श्रीभगवान् उवाच ।
लोके अस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया अनघ ।
ज्ञान-योगेन साङ्ख्यानाम् कर्म-योगेन योगिनाम् ॥३॥
न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते ।
न च संन्यसनात् एव सिद्धिम् समधिगच्छति ॥४॥
न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्मकृत् ।
कार्यते हि अवशः कर्म सर्वः प्रकृतिजैः गुणैः ॥५॥
कर्म-इन्द्रियाणि संयम्य यः आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः सः उच्यते ॥६॥
यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन ।
कर्म-इन्द्रियैः कर्म-योगम् असक्तः सः विशिष्यते ॥७॥
नियतम् कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः ।
शरीर-यात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः ॥८॥
यज्ञार्थात् कर्मणः अन्यत्र लोकः अयम् कर्म-बन्धनः ।
तत् अर्थम् कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥९॥
सह-यज्ञाः प्रजाः सृष्ट्वा पुरा उवाच प्रजापतिः ।
अनेन प्रसविष्यध्वम् एषः वः अस्तु इष्ट-कामधुक् ॥१०॥
देवान् भावयत अनेन ते देवाः भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥११॥
इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञ-भाविताः ।
तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेनः एव सः ॥१२॥
यज्ञ-शिष्ट आशिनः सन्तः मुच्यन्ते सर्व-किल्बिषैः ।
भुञ्जते ते तु अघं पापाः ये पचन्ति आत्म-कारणात् ॥१३॥
अन्नात् भवन्ति भूतानि पर्जन्यात् अन्न-सम्भवः ।
यज्ञात् भवति पर्जन्यः यज्ञः कर्म-समुद्भवः ॥१४॥
कर्म ब्रह्म-उद्भवं विद्धि ब्रह्म अक्षर-समुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥
एवं प्रवर्तितम् चक्रम् न अनुवर्तयति इह यः ।
अघायुः इन्द्रिय-आरामः मोघम् पार्थ सः जीवति ॥१६॥
यः तु आत्म-रतिः एव स्यात् आत्म-तृप्तः च मानवः ।
आत्मनि एव च सन्तुष्टः तस्य कार्यम् न विद्यते ॥१७॥
न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन ।
न च अस्य सर्व-भूतेषु कश्चित् अर्थ-व्यपाश्रयः ॥१८॥
तस्मात् असक्तः सततम् कार्यम् कर्म समाचर ।
असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः ॥१९॥
कर्मणा एव हि संसिद्धिम् आस्थिताः जनक-आदयः ।
लोक-संग्रहम् एव अपि सम्पश्यन् कर्तुम् अर्हसि ॥२०॥
यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः ।
सः यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते ॥२१॥
न मे पार्थ अस्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन ।
न अनवाप्तम् अवाप्तव्यम् वर्ते एव च कर्मणि ॥२२॥
यदि हि अहं न वर्तेयम् जातु कर्मणि अतन्द्रितः ।
मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥२३॥
उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत् अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥२४॥
सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत ।
कुर्यात् विद्वान् तथा असक्तः चिकीर्षुः लोक-संग्रहम् ॥२५॥
न बुद्धि-भेदम् जनयेत् अज्ञानाम् कर्म-सङ्गिनाम् ।
जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥२६॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कार-विमूढ-आत्मा कर्ता अहम् इति मन्यते ॥२७॥
तत्त्ववित् तु महाबाहो गुण-कर्म-विभागयोः ।
गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥२८॥
प्रकृतेः गुण-सम्मूढाः सज्जन्ते गुण-कर्मसु ।
तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् ॥२९॥
मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म-चेतसा ।
निराशीः निर्ममः भूत्वा युध्यस्व विगत-ज्वरः ॥३०॥
ये मे मतम् इदम् नित्यम् अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥३१॥
ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम् ।
सर्व-ज्ञान-विमूढान् तान् विद्धि नष्टान् अचेतसः ॥३२॥
सदृशम् चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि ।
प्रकृतिम् यान्ति भूतानि निग्रहः किम् करिष्यति ॥३३॥
इन्द्रियस्य इन्द्रियस्य-अर्थे राग-द्वेषौ व्यवस्थितौ ।
तयोः न वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ ॥३४॥
श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनम् श्रेयः परधर्मः भय-आवहः ॥३५॥
अर्जुनः उवाच ।
अथ केन प्रयुक्तः अयं पापम् चरति पूरुषः ।
अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥३६॥
श्रीभगवान् उवाच ।
कामः एषः क्रोधः एषः रजः गुण-समुद्भवः ।
महा-अशनः महा-पाप्मा विद्धि एनम् इह वैरिणम् ॥३७॥
धूमेन आव्रियते वह्निः यथा आदर्शः मलेन च ।
यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥३८॥
आवृतम् ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥३९॥
इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते ।
एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥४०॥
तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ ।
पाप्मानम् प्रजहि हि एनं ज्ञान-विज्ञान-नाशनम् ॥४१॥
इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः ।
मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः ॥४२॥
एवम् बुद्धेः परम् बुद्ध्वा संस्तभ्य आत्मानम् आत्मना ।
जहि शत्रुम् महाबाहो काम-रूपम् दुरासदम् ॥४३॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे कर्म-योगः नाम तृतीयः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ चतुर्थ अध्यायः । ज्ञान-कर्म-संन्यास-योगः ।
श्रीभगवान् उवाच ।
इमम् विवस्वते योगम् प्रोक्तवान् अहम् अव्ययम् ।
विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् ॥१॥
एवम् परम्परा-प्राप्तम् इमम् राजर्षयः विदुः ।
सः कालेन इह महता योगः नष्टः परन्तप ॥२॥
सः एव अयम् मया ते अद्य योगः प्रोक्तः पुरातनः ।
भक्तः असि मे सखा च इति रहस्यम् हि एतत् उत्तमम् ॥३॥
अर्जुनः उवाच ।
अपरम् भवतः जन्म परम् जन्म विवस्वतः ।
कथम् एतत् विजानीयाम् त्वम् आदौ प्रोक्तवान् इति ॥४॥
श्रीभगवान् उवाच ।
बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन ।
तानि अहम् वेद सर्वाणि न त्वम् वेत्थ परन्तप ॥५॥
अजः अपि सन् अव्यय-आत्मा भूतानाम् ईश्वरः अपि सन् ।
प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्म-मायया ॥६॥
यदा यदा हि धर्मस्य ग्लानिः भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम् ॥७॥
परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् ।
धर्म-संस्थापन-अर्थाय सम्भवामि युगे युगे ॥८॥
जन्म कर्म च मे दिव्यम् एवम् यः वेत्ति तत्त्वतः ।
त्यक्त्वा देहम् पुनः जन्म न एति माम् एति सः अर्जुन ॥९॥
वीत-राग-भय-क्रोधाः मन्मयाः माम् उपाश्रिताः ।
बहवः ज्ञान-तपसा पूताः मद्भावम् आगताः ॥१०॥
ये यथा माम् प्रपद्यन्ते तान् तथा एव भजामि अहम् ।
मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥
काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्ते इह देवताः ।
क्षिप्रम् हि मानुषे लोके सिद्धिः भवति कर्मजा ॥१२॥
चातुर्वर्ण्यम् मया सृष्टम् गुण-कर्म-विभागशः ।
तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम् ॥१३॥
न माम् कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।
इति माम् यः अभिजानाति कर्मभिः न स बध्यते ॥१४॥
एवम् ज्ञात्वा कृतम् कर्म पूर्वैः अपि मुमुक्षुभिः ।
कुरु कर्म एव तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् ॥१५॥
किम् कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः ।
तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥१६॥
कर्मणः हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः ।
अकर्मणः च बोद्धव्यम् गहना कर्मणः गतिः ॥१७॥
कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः ।
सः बुद्धिमान् मनुष्येषु सः युक्तः कृत्स्न-कर्म-कृत् ॥१८॥
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः ।
ज्ञान-अग्नि-दग्ध-कर्माणम् तम् आहुः पण्डितम् बुधाः ॥१९॥
त्यक्त्वा कर्म-फल-आसङ्गम् नित्य-तृप्तः निराश्रयः ।
कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति सः ॥२०॥
निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः ।
शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥२१॥
यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः विमत्सरः ।
समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥२२॥
गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः ।
यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते ॥२३॥
ब्रह्म-अर्पणं ब्रह्म हविः ब्रह्म-अग्नौ ब्रह्मणा हुतम् ।
ब्रह्म एव तेन गन्तव्यम् ब्रह्म-कर्म-समाधिना ॥२४॥
दैवम् एव अपरे यज्ञम् योगिनः पर्युपासते ।
ब्रह्म-अग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति ॥२५॥
श्रोत्र-आदीनि इन्द्रियाणि अन्ये संयम-अग्निषु जुह्वति ।
शब्द-आदीन् विषयान् अन्ये इन्द्रिय-अग्निषु जुह्वति ॥२६॥
सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च अपरे ।
आत्म-संयम-योग-अग्नौ जुह्वति ज्ञान-दीपिते ॥२७॥
द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः तथा अपरे ।
स्वाध्याय-ज्ञान-यज्ञाः च यतयः संशितव्रताः ॥२८॥
अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे ।
प्राण-अपान-गती रुद्ध्वा प्राणायाम-परायणाः ॥२९॥
अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति ।
सर्वे अपि एते यज्ञविदः यज्ञ-क्षपित-कल्मषाः ॥३०॥
यज्ञ-शिष्ट-अमृत-भुजः यान्ति ब्रह्म सनातनम् ।
नायम् लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरुसत्तम ॥३१॥
एवम् बहुविधाः यज्ञाः वितताः ब्रह्मणः मुखे ।
कर्मजान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे ॥३२॥
श्रेयान् द्रव्यमयात् यज्ञात् ज्ञान-यज्ञः परन्तप ।
सर्वम् कर्म-अखिलम् पार्थ ज्ञाने परिसमाप्यते ॥३३॥
तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्व-दर्शिनः ॥३४॥
यत् ज्ञात्वा न पुनः मोहम् एवम् यास्यसि पाण्डव ।
येन भूतानि अशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥३५॥
अपि चेत् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः ।
सर्वम् ज्ञान-प्लवेन एव वृजिनम् सन्तरिष्यसि ॥३६॥
यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन ।
ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥३७॥
न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते ।
तत् स्वयं योग-संसिद्धः कालेन आत्मनि विन्दति ॥३८॥
श्रद्धावान् लभते ज्ञानम् तत्परः संयत-इन्द्रियः ।
ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति ॥३९॥
अज्ञः च अश्रद्दधानः च संशय-आत्मा विनश्यति ।
न अयं लोकः अस्ति न परः न सुखं संशयात्मनः ॥४०॥
योग-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४१॥
तस्मात् अज्ञान-सम्भूतम् हृत्स्थम् ज्ञान-असिना-आत्मनः ।
छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत ॥४२॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे ज्ञान-कर्म-संन्यास-योगः नाम चतुर्थ अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ पञ्चमः अध्यायः । संन्यास-योगः ।
अर्जुनः उवाच ।
संन्यासम् कर्मणाम् कृष्ण पुनः योगम् च शंससि ।
यत् श्रेयः एतयोः एकम् तत् मे ब्रूहि सुनिश्चितम् ॥१॥
श्रीभगवान् उवाच ।
संन्यासः कर्म-योगः च निःश्रेयसकरौ उभौ ।
तयोः तु कर्म-संन्यासात् कर्म-योगः विशिष्यते ॥२॥
ज्ञेयः सः नित्य-संन्यासी यः न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वः हि महाबाहो सुखम् बन्धात् प्रमुच्यते ॥३॥
साङ्ख्य-योगौ पृथक् बालाः प्रवदन्ति न पण्डिताः ।
एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् ॥४॥
यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते ।
एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति ॥५॥
संन्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः ।
योग-युक्तः मुनिः ब्रह्म नचिरेण अधिगच्छति ॥६॥
योग-युक्तः विशुद्ध-आत्मा विजित-आत्मा जित-इन्द्रियः ।
सर्व-भूत-आत्म-भूत-आत्मा कुर्वन् अपि न लिप्यते ॥७॥
न एव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपञ् श्वसन् ॥८॥
प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि ।
इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् ॥९॥
ब्रह्मणि आधाय कर्माणि सङ्गम् त्यक्त्वा करोति यः ।
लिप्यते न सः पापेन पद्म-पत्रम् इव अम्भसा ॥१०॥
कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि ।
योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वा आत्म-शुद्धये ॥११॥
युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तः निबध्यते ॥१२॥
सर्व-कर्माणि मनसा संन्यस्य आस्ते सुखम् वशी ।
नव-द्वारे पुरे देही न एव कुर्वन् न कारयन् ॥१३॥
न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्म-फल-संयोगम् स्वभावः तु प्रवर्तते ॥१४॥
न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः ।
अज्ञानेन आवृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः ॥१५॥
ज्ञानेन तु तत् अज्ञानम् येषाम् नाशितम् आत्मनः ।
तेषाम् आदित्यवत् ज्ञानम् प्रकाशयति तत् परम् ॥१६॥
तत् बुद्धयः तत् आत्मानः तत् निष्ठाः तत् परायणाः ।
गच्छन्ति अपुनरावृत्तिम् ज्ञान-निर्धूत-कल्मषाः ॥१७॥
विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि च एव श्वपाके च पण्डिताः सम-दर्शिनः ॥१८॥
इह एव तैः जितः सर्गः येषाम् साम्ये स्थितम् मनः ।
निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः ॥१९॥
न प्रहृष्येत् प्रियम् प्राप्य न उद्विजेत् प्राप्य च अप्रियम् ।
स्थिर-बुद्धिः असम्मूढः ब्रह्मवित् ब्रह्मणि स्थितः ॥२०॥
बाह्य-स्पर्शेषु असक्त-आत्मा विन्दति आत्मनि यत् सुखम् ।
सः ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥२१॥
ये हि संस्पर्शजाः भोगाः दुःख-योनयः एव ते ।
आदि अन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥
शक्नोति इह एव यः सोढुम् प्राक् शरीर-विमोक्षणात् ।
काम-क्रोध-उद्भवम् वेगम् सः युक्तः सः सुखी नरः ॥२३॥
यः अन्तः-सुखः अन्तर-आरामः तथा अन्तर्-ज्योतिः एव यः ।
सः योगी ब्रह्म-निर्वाणम् ब्रह्म-भूतः अधिगच्छति ॥२४॥
लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः ।
छिन्न-द्वैधाः यत-आत्मानः सर्व-भूतहिते रताः ॥२५॥
काम-क्रोध-वियुक्तानाम् यतीनाम् यत-चेतसाम् ।
अभितः ब्रह्म-निर्वाणं वर्तते विदित-आत्मनाम् ॥२६॥
स्पर्शान् कृत्वा बहिः बाह्यान् चक्षुः च एव अन्तरे भ्रुवोः ।
प्राण-अपानौ समौ कृत्वा नास-अभ्यन्तर-चारिणौ ॥२७॥
यत-इन्द्रिय-मनः बुद्धिः मुनिः मोक्ष-परायणः ।
विगत-इच्छा-भय-क्रोधः यः सदा मुक्तः एव सः ॥२८॥
भोक्तारम् यज्ञ-तपसाम् सर्व-लोक-महेश्वरम् ।
सुहृदम् सर्व-भूतानाम् ज्ञात्वा मां शान्तिम् ऋच्छति ॥२९॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे संन्यास-योगः नाम पञ्चमः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ षष्ठः अध्यायः । आत्म-संयम-योगः ।
श्रीभगवान् उवाच ।
अनाश्रितः कर्म-फलम् कार्यम् कर्म करोति यः ।
सः संन्यासी च योगी च न निरग्निः न च अक्रियः ॥१॥
यम् संन्यासम् इति प्राहुः योगम् तम् विद्धि पाण्डव ।
न हि असंन्यस्त-सङ्कल्पः योगी भवति कश्चन ॥२॥
आरुरुक्षोः मुनेः योगम् कर्म कारणम् उच्यते ।
योग-आरूढस्य तस्य एव शमः कारणम् उच्यते ॥३॥
यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते ।
सर्व-सङ्कल्प-संन्यासी योग-आरूढः तदा उच्यते ॥४॥
उद्धरेत् आत्मना आत्मानम् न आत्मानम् अवसादयेत् ।
आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः ॥५॥
बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः ।
अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत् ॥६॥
जित-आत्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीत-उष्ण-सुख-दुःखेषु तथा मान-अपमानयोः ॥७॥
ज्ञान-विज्ञान-तृप्त-आत्मा कूटस्थः विजित-इन्द्रियः ।
युक्तः इति उच्यते योगी सम-लोष्ट-अश्म-काञ्चनः ॥८॥
सुहृत् मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु ।
साधुषु अपि च पापेषु सम-बुद्धिः विशिष्यते ॥९॥
योगी युञ्जीत सततम् आत्मानम् रहसि स्थितः ।
एकाकी यत-चित्त-आत्मा निराशीः अपरिग्रहः ॥१०॥
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।
न अति-उच्छ्रितम् न अति-नीचम् चैल-अजिन-कुश-उत्तरम् ॥११॥
तत्र एकाग्रम् मनः कृत्वा यत-चित्त-इन्द्रिय-क्रियः ।
उपविश्य आसने युञ्ज्यात् योगम् आत्म-विशुद्धये ॥१२॥
समम् काय-शिरः-ग्रीवम् धारयन् अचलम् स्थिरः ।
सम्प्रेक्ष्य नासिक-अग्रं स्वम् दिशः च अनवलोकयन् ॥१३॥
प्रशान्त-आत्मा विगत-भीः ब्रह्मचारि-व्रते स्थितः ।
मनः संयम्य मत्-चित्तः युक्तः आसीत मत्-परः ॥१४॥
युञ्जन् एवं सदा आत्मानम् योगी नियत-मानसः ।
शान्तिम् निर्वाण-परमाम् मत्-संस्थाम् अधिगच्छति ॥१५॥
न अति अश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः ।
न च अति-स्वप्न-शीलस्य जाग्रतः न एव च अर्जुन ॥१६॥
युक्त-आहार-विहारस्य युक्त-चेष्टस्य कर्मसु ।
युक्त-स्वप्न-अवबोधस्य योगः भवति दुःखहा ॥१७॥
यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते ।
निःस्पृहः सर्व-कामेभ्यः युक्तः इति उच्यते तदा ॥१८॥
यथा दीपः निवातस्थः नेङ्गते सोपमा स्मृता ।
योगिनः यत-चित्तस्य युञ्जतः योगम् आत्मनः ॥१९॥
यत्र उपरमते चित्तम् निरुद्धम् योग-सेवया ।
यत्र च एव आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति ॥२०॥
सुखम् आत्यन्तिकम् यत् तत् बुद्धि-ग्राह्यम्-अतीन्द्रियम् ।
वेत्ति यत्र न च एव अयम् स्थितः चलति तत्त्वतः ॥२१॥
यम् लब्ध्वा च अपरम् लाभम् मन्यते न अधिकम् ततः ।
यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते ॥२२॥
तम् विद्यात् दुःख-संयोग-वियोगम् योग-संज्ञितम् ।
सः निश्चयेन योक्तव्यः योगः अनिर्विण्ण-चेतसा ॥२३॥
सङ्कल्प-प्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः ।
मनसा एव इन्द्रिय-ग्रामम् विनियम्य समन्ततः ॥२४॥
शनैः शनैः उपरमेत् बुद्ध्या धृति-गृहीतया ।
आत्म-संस्थम् मनः कृत्वा न किञ्चित् अपि चिन्तयेत् ॥२५॥
यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् ।
ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् ॥२६॥
प्रशान्त-मनसम् हि एनम् योगिनम् सुखम् उत्तमम् ।
उपैति शान्त-रजसम् ब्रह्म-भूतम् अकल्मषम् ॥२७॥
युञ्जन् एवम् सदा आत्मानम् योगी विगत-कल्मषः ।
सुखेन ब्रह्म-संस्पर्शम् अत्यन्तम् सुखम् अश्नुते ॥२८॥
सर्व-भूतस्थम् आत्मानम् सर्व-भूतानि च आत्मनि ।
ईक्षते योग-युक्त-आत्मा सर्वत्र सम-दर्शनः ॥२९॥
यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति ।
तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ॥३०॥
सर्व-भूत-स्थितम् यः माम् भजति एकत्वम् आस्थितः ।
सर्वथा वर्तमानः अपि सः योगी मयि वर्तते ॥३१॥
आत्मा-उपम्येन सर्वत्र समम् पश्यति यः अर्जुन ।
सुखम् वा यदि वा दुःखम् सः योगी परमः मतः ॥३२॥
अर्जुनः उवाच ।
यः अयं योगः त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्य अहं न पश्यामि चञ्चलत्वात् स्थितिम् स्थिराम् ॥३३
चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम् ।
तस्य अहम् निग्रहम् मन्ये वायोः इव सुदुष्करम् ॥३४॥
श्रीभगवान् उवाच ।
असंशयम् महाबाहो मनः दुर्निग्रहम् चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५॥
असंयत-आत्मना योगः दुष्प्रापः इति मे मतिः ।
वश्य-आत्मना तु यतता शक्यः अवाप्तुम् उपायतः ॥३६॥
अर्जुनः उवाच ।
अयतिः श्रद्धया उपेतः योगात् चलित-मानसः ।
अप्राप्य योग-संसिद्धिम् काम् गतिम् कृष्ण गच्छति ॥३७॥
कच्चित् न उभय-विभ्रष्टः छिन्न-अभ्रम् इव नश्यति ।
अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः पथि ॥३८॥
एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतः ।
त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते ॥३९॥
श्रीभगवान् उवाच ।
पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते ।
न हि कल्याण-कृत् कश्चित् दुर्गतिम् तात गच्छति ॥४०॥
प्राप्य पुण्य-कृताम् लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनाम् श्रीमताम् गेहे योग-भ्रष्टः अभिजायते ॥४१॥
अथवा योगिनाम् एव कुले भवति धीमताम् ।
एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम् ॥४२॥
तत्र तम् बुद्धि-संयोगम् लभते पौर्व-देहिकम् ।
यतते च ततः भूयः संसिद्धौ कुरुनन्दन ॥४३॥
पूर्व-अभ्यासेन तेन एव ह्रियते हि अवशः अपि सः ।
जिज्ञासुः अपि योगस्य शब्द-ब्रह्म अतिवर्तते ॥४४॥
प्रयत्नात् यतमानः तु योगी संशुद्ध-किल्बिषः ।
अनेक-जन्म-संसिद्धः ततः याति पराम् गतिम् ॥४५॥
तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः ।
कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन ॥४६॥
योगिनाम् अपि सर्वेषाम् मत् गतेन अन्तर-आत्मना ।
श्रद्धावान् भजते यः माम् सः मे युक्ततमः मतः ॥४७॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे आत्म-संयम-योगः नाम षष्ठः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ सप्तमः अध्यायः । ज्ञान-विज्ञान-योगः ।
श्रीभगवान् उवाच ।
मयि आसक्त-मनाः पार्थ योगम् युञ्जन् मत् आश्रयः ।
असंशयम् समग्रम् माम् यथा ज्ञास्यसि तत् शृणु ॥१॥
ज्ञानम् ते अहम् सविज्ञानम् इदम् वक्ष्यामि अशेषतः ।
यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते ॥२॥
मनुष्याणाम् सहस्रेषु कश्चित् यतति सिद्धये ।
यतताम् अपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वतः ॥३॥
भूमिः आपः अनलः वायुः खम् मनः बुद्धिः एव च ।
अहंकारः इति इयम् मे भिन्ना प्रकृतिः अष्टधा ॥४॥
अपरा इयम् इतः तु अन्याम् प्रकृतिम् विद्धि मे पराम् ।
जीव-भूताम् महाबाहो यया इदम् धार्यते जगत् ॥५॥
एतत् योनीनि भूतानि सर्वाणि इति उपधारय ।
अहम् कृत्स्नस्य जगतः प्रभवः प्रलयः तथा ॥६॥
मत्तः परतरं न अन्यत् किञ्चित् अस्ति धनञ्जय ।
मयि सर्वम् इदम् प्रोतम् सूत्रे मणिगणाः इव ॥७॥
रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशि-सूर्ययोः ।
प्रणवः सर्व-वेदेषु शब्दः खे पौरुषम् नृषु ॥८॥
पुण्यः गन्धः पृथिव्याम् च तेजः च अस्मि विभावसौ ।
जीवनम् सर्व-भूतेषु तपः च अस्मि तपस्विषु ॥९॥
बीजम् माम् सर्व-भूतानाम् विद्धि पार्थ सनातनम् ।
बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् ॥१०॥
बलम् बलवताम् च अहम् काम-राग-विवर्जितम् ।
धर्म-अविरुद्धः भूतेषु कामः अस्मि भरतर्षभ ॥११-
ये च एव सात्त्विकाः भावाः राजसाः तामसाः च ये ।
मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि ॥१२॥
त्रिभिः गुणमयैः भावैः एभिः सर्वम्म् इदम् जगत् ।
मोहितम् न अभिजानाति माम् एभ्यः परम् अव्ययम् ॥१३॥
दैवी हि एषा गुणमयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते ॥१४॥
न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर-अधमाः ।
मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः ॥१५॥
चतुः-विधाः भजन्ते माम् जनाः सुकृतिनः अर्जुन ।
आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
तेषाम् ज्ञानी नित्य-युक्तः एक-भक्तिः विशिष्यते ।
प्रियः हि ज्ञानिनः अत्यर्थम् अहम् सः च मम प्रियः ॥१७॥
उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम् ।
आस्थितः सः हि युक्त-आत्मा माम् एव अनुत्तमाम् गतिम् ॥१८॥
बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते ।
वासुदेवः सर्वम् इति सः महात्मा सुदुर्लभः ॥१९॥
कामैः तैः तैः हृत-ज्ञानाः प्रपद्यन्ते अन्य-देवताः ।
तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥२०॥
यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति ।
तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि अहम् ॥२१॥
सः तया श्रद्धया युक्तः तस्य अराधनम् ईहते ।
लभते च ततः कामान् मया एव विहितान् हि तान् ॥२२॥
अन्तवत् तु फलम् तेषाम् तत् भवति अल्प-मेधसाम् ।
देवान् देव-यजः यान्ति मत् भक्ताः यान्ति माम् अपि ॥२३॥
अव्यक्तम् व्यक्तिम् आपन्नम् मन्यन्ते माम् अबुद्धयः ।
परम् भावम् अजानन्तः मम अव्ययम् अनुत्तमम् ॥२४॥
न अहम् प्रकाशः सर्वस्य योग-माया-समावृतः ।
मूढः अयम् न अभिजानाति लोकः माम् अजम् अव्ययम् ॥२५॥
वेद अहम् समतीतानि वर्तमानानि च अर्जुन ।
भविष्याणि च भूतानि माम् तु वेद न कश्चन ॥२६॥
इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत ।
सर्व-भूतानि सम्मोहम् सर्गे यान्ति परन्तप ॥२७॥
येषाम् तु अन्तगतम् पापम् जनानाम् पुण्य-कर्मणाम् ।
ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते माम् दृढ-व्रताः ॥२८॥
जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये ।
ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मम् कर्म च अखिलम् ॥२९॥
साधिभूत-अधिदैवम् माम् साधियज्ञम् च ये विदुः ।
प्रयाणकाले अपि च मां ते विदुः युक्त-चेतसः ॥३०॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे ज्ञान-विज्ञान-योगः नाम सप्तमः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ अष्टमः अध्यायः । अक्षर-ब्रह्म-योगः ।
अर्जुनः उवाच ।
किम् तत् ब्रह्म किम् अध्यात्मम् किम् कर्म पुरुषोत्तम ।
अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किम् उच्यते ॥१॥
अधियज्ञः कथम् कः अत्र देहे अस्मिन् मधुसूदन ।
प्रयाण-काले च कथम् ज्ञेयः असि नियत-आत्मभिः ॥२॥
श्रीभगवान् उवाच ।
अक्षरम् ब्रह्म परमम् स्वभावः अध्यात्मम् उच्यते ।
भूत-भाव-उद्भव-करः विसर्गः कर्म-संज्ञितः ॥३॥
अधिभूतम् क्षरः भावः पुरुषः च अधिदैवतम् ।
अधियज्ञः अहम् एव अत्र देहे देह-भृताम् वर ॥४॥
अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति सः मत् भावम् याति न अस्ति अत्र संशयः ॥५॥
यम् यम् वा अपि स्मरन् भावम् त्यजति अन्ते कलेवरम् ।
तम् तम् एव एति कौन्तेय सदा तद्त् भाव-भावितः ॥६॥
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च ।
मयि अर्पित-मनः-बुद्धिः माम् एव एष्यसि असंशयम् ॥७॥
अभ्यास-योग-युक्तेन चेतसा न अन्य-गामिना ।
परमम् पुरुषम् दिव्यम् याति पार्थ अनुचिन्तयन् ॥८॥
कविम् पुराणम् अनुशासितारम् अणोः अणीयांसम् अनुस्मरेत् यः ।
सर्वस्य धातारम् अचिन्त्य-रूपं आदित्य-वर्णम् तमसः परस्तात् ॥९॥
प्रयाण-काले मनसा अचलेन भक्त्या युक्तः योग-बलेन च एव ।
भ्रुवोःमध्ये प्राणम्आवेश्य सम्यक् सः तं परं पुरुषम् उपैति दिव्यम्॥१०॥
यत् अक्षरम् वेद-विदः वदन्ति विशन्ति यत् यतयः वीत-रागाः ।
यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति तत् ते पदम् संग्रहेण प्रवक्ष्ये ॥११॥
सर्व-द्वाराणि संयम्य मनः हृदि निरुध्य च ।
मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योग-धारणाम् ॥१२॥
ओम् इति एक-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन् ।
यः प्रयाति त्यजन् देहम् सः याति परमाम् गतिम् ॥१३॥
अनन्य-चेताः सततम् यः माम् स्मरति नित्यशः ।
तस्य अहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥१४॥
माम् उपेत्य पुनः-जन्म दुःख-आलयम् अशाश्वतम् ।
न आप्नुवन्ति महात्मानः संसिद्धिम् परमाम् गताः ॥१५॥
आब्रह्म-भुवनात् लोकाः पुनः-आवर्तिनः अर्जुन ।
माम् उपेत्य तु कौन्तेय पुनः-जन्म न विद्यते ॥१६॥
सहस्र-युग-पर्यन्तम् अहः यत् ब्रह्मणः विदुः ।
रात्रिम् युग-सहस्र-अन्ताम् ते अहोरात्र-विदः जनाः ॥१७॥
अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे ।
रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके ॥१८॥
भूत-ग्रामः सः एव अयम् भूत्वा भूत्वा प्रलीयते ।
रात्रि आगमे अवशः पार्थ प्रभवति अहः आगमे ॥१९॥
परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः ।
यः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥
अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम् ।
यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम ॥२१॥
पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया ।
यस्य अन्तः-स्थानि भूतानि येन सर्वम् इदम् ततम् ॥२२॥
यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः ।
प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरतर्षभ ॥२३॥
अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तर-आयणम् ।
तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्मविदः जनाः ॥२४॥
धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिण-आयनम् ।
तत्र चान्द्रमसम् ज्योतिः योगी प्राप्य निवर्तते ॥२५॥
शुक्ल-कृष्णे गती हि एते जगतः शाश्वते मते ।
एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः ॥२६॥
न एते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु योग-युक्तः भव अर्जुन ॥२७॥
वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य-फलम् प्रदिष्टम् ।
अत्येति तत्सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति च आद्यम्॥२८॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे अक्षर-ब्रह्म-योगः नाम अष्टमः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ नवमः अध्यायः । राज-विद्या-राज-गुह्य-योगः ।
श्रीभगवान् उवाच ।
इदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे ।
ज्ञानम् विज्ञान-सहितम् यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥१॥
राज-विद्या राज-गुह्यम् पवित्रम्म् इदम् उत्तमम् ।
प्रत्यक्ष-अवगमम् धर्म्यम् सुसुखम् कर्तुम् अव्ययम् ॥२॥
अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप ।
अप्राप्य माम् निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥३॥
मया ततम् इदम् सर्वम् जगत् अव्यक्त-मूर्तिना ।
मत्-स्थानि सर्व-भूतानि न च अहम् तेषु अवस्थितः ॥४॥
न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ।
भूत-भृत् न च भूत-स्थः मम आत्मा भूत-भावनः ॥५॥
यथा आकाश-स्थितः नित्यम् वायुः सर्वत्रगः महान् ।
तथा सर्वाणि भूतानि मत्-स्थानि इति उपधारय ॥६॥
सर्व-भूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम् ।
कल्प-क्षये पुनः तानि कल्प-आदौ विसृजामि अहम् ॥७॥
प्रकृतिम् स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।
भूत-ग्रामम् इमम् कृत्स्नम् अवशम् प्रकृतेः वशात् ॥८॥
न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवत् आसीनम् असक्तम् तेषु कर्मसु ॥९॥
मया अध्यक्षेण प्रकृतिः सूयते सचर-अचरम् ।
हेतुना अनेन कौन्तेय जगत् विपरिवर्तते ॥१०॥
अवजानन्ति माम् मूढाः मानुषीम् तनुम् आश्रितम् ।
परम् भावम् अजानन्तः मम भूत-महेश्वरम् ॥११॥
मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः विचेतसः ।
राक्षसीम् आसुरीम् च एव प्रकृतिम् मोहिनीम् श्रिताः ॥१२॥
महात्मानः तु माम् पार्थ दैवीम् प्रकृतिम् आश्रिताः ।
भजन्ति अनन्य-मनसः ज्ञात्वा भूतादिम् अव्ययम् ॥१३॥
सततम् कीर्तयन्तः माम् यतन्तः च दृढ-व्रताः ।
नमस्यन्तः च माम् भक्त्या नित्य-युक्ताः उपासते ॥१४॥
ज्ञान-यज्ञेन च अपि अन्ये यजन्तः माम् उपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५।
अहम् क्रतुः अहम् यज्ञः स्वधा अहम् अहम् औषधम् ।
मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहम् हुतम् ॥१६॥
पिता अहम् अस्य जगतः माता धाता पितामहः ।
वेद्यम् पवित्रम् ओंकारः ऋक्-साम यजुः एव च ॥१७॥
गतिः भर्ता प्रभुः साक्षी निवासः शरणम् सुहृत् ।
प्रभवः प्रलयः स्थानम् निधानम् बीजम् अव्ययम् ॥१८॥
तपामि अहम् अहम् वर्षम् निगृह्णामि उत्सृजामि च ।
अमृतम् च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥१९॥
त्रै-विद्याः माम् सोमपाः पूत-पापाः यज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते ।
ते पुण्यम् आसाद्य सुरेन्द्रलोकं अश्नन्ति दिव्यान् दिवि देवभोगान् ॥२०॥
ते तम् भुक्त्वा स्वर्ग-लोकम् विशालम् क्षीणे पुण्ये मर्त्य-लोकम् विशन्ति ।
एवम् त्रयी-धर्मम् अनुप्रपन्नाः गत-आगतम् काम-कामाः लभन्ते ॥२१॥
अनन्याः चिन्तयन्तः माम् ये जनाः पर्युपासते ।
तेषाम् नित्य-अभियुक्तानाम् योग-क्षेमम् वहामि अहम् ॥२२॥
ये अपि अन्य-देवता-भक्ताः यजन्ते श्रद्धया अन्विताः ।
ते अपि माम् एव कौन्तेय यजन्ति अविधि-पूर्वकम् ॥२३॥
अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च ।
न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते ॥२४॥
यान्ति देव-व्रताः देवान् पितॄन् यान्ति पितृ-व्रताः ।
भूतानि यान्ति भूत-इज्याः यान्ति मत् याजिनः अपि माम् ॥२५॥
पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति ।
तत् अहम् भक्ति-उपहृतम् अश्नामि प्रयत आत्मनः ॥२६॥
यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मत् अर्पणम् ॥२७॥
शुभ-अशुभ-फलैः एवम् मोक्ष्यसे कर्म-बन्धनैः ।
संन्यास-योग-युक्त-आत्मा विमुक्तः माम् उपैष्यसि ॥२८॥
समः अहम् सर्व-भूतेषु न मे द्वेष्यः अस्ति न प्रियः ।
ये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि अहम् ॥२९॥
अपि चेत् सु-दुः-आचारः भजते माम् अनन्य-भाक् ।
साधुः एव सः मन्तव्यः सम्यक् व्यवसितः हि सः ॥३०॥
क्षिप्रम् भवति धर्म-आत्मा शश्वत् शान्तिम् निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥
माम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पाप-योनयः ।
स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति पराम् गतिम् ॥३२॥
किम् पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा ।
अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम् ॥३३॥
मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु ।
माम् एव एष्यसि युक्त्वा एवम् आत्मानम् मत्-परायणः ॥३४॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे राज-विद्या-राज-गुह्य-योगः नाम नवमः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ दशमः अध्यायः । विभूति-योगः ।
श्रीभगवान् उवाच ।
भूयः एव महाबाहो शृणु मे परमम् वचः ।
यत् ते अहम् प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥१॥
न मे विदुः सुर-गणाः प्रभवम् न महर्षयः ।
अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः ॥२॥
यः माम् अजम् अनादिम् च वेत्ति लोक-महेश्वरम् ।
असम्मूढः सः मर्त्येषु सर्व-पापैः प्रमुच्यते ॥३॥
बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः ।
सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च ॥४॥
अहिंसा समता तुष्टिः तपः दानम् यशः अयशः ।
भवन्ति भावाः भूतानाम् मत्तः एव पृथक्-विधाः ॥५॥
महर्षयः सप्त पूर्वे चत्वारः मनवः तथा ।
मत् भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः ॥६॥
एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः ।
सः अविकम्पेन योगेन युज्यते न अत्र संशयः ॥७॥
अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते ।
इति मत्वा भजन्ते माम् बुधाः भाव-समन्विताः ॥८॥
मत् चित्ताः मत् गत-प्राणाः बोधयन्तः परस्परम् ।
कथयन्तः च माम् नित्यम् तुष्यन्ति च रमन्ति च ॥९॥
तेषाम् सतत-युक्तानाम् भजताम् प्रीति-पूर्वकम् ।
ददामि बुद्धि-योगम् तम् येन माम् उपयान्ति ते ॥१०॥
तेषाम् एव अनुकम्पार्थम् अहम् अज्ञानजम् तमः ।
नाशयामि आत्म-भावस्थः ज्ञान-दीपेन भास्वता ॥११॥
अर्जुनः उवाच ।
परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान् ।
पुरुषम् शाश्वतम् दिव्यम् आदिदेवम् अजम् विभुम् ॥१२॥
आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा ।
असितः देवलः व्यासः स्वयम् च एव ब्रवीषि मे ॥१३॥
सर्वम् एतत् ऋतम् मन्ये यत् माम् वदसि केशव ।
न हि ते भगवन् व्यक्तिम् विदुः देवाः न दानवाः ॥१४॥
स्वयम् एव आत्मना आत्मानम् वेत्थ त्वम् पुरुषोत्तम ।
भूत-भावन भूत-ईश देव-देव जगत्-पते ॥१५॥
वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्म-विभूतयः ।
याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि ॥१६॥
कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्यः असि भगवन् मया ॥१७॥
विस्तरेण आत्मनः योगम् विभूतिम् च जनार्दन ।
भूयः कथय तृप्तिः हि शृण्वतः न अस्ति मे अमृतम् ॥१८॥
श्रीभगवान् उवाच ।
हन्त ते कथयिष्यामि दिव्याः हि आत्म-विभूतयः ।
प्राधान्यतः कुरु-श्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥१९॥
अहम् आत्मा गुडाका-ईश सर्व-भूत-आशय-स्थितः ।
अहम् आदिः च मध्यम् च भूतानाम् अन्तः एव च ॥२०॥
आदित्यानाम् अहम् विष्णुः ज्योतिषाम् रविः अंशुमान् ।
मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहम् शशी ॥२१॥
वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना ॥२२॥
रुद्राणाम् शङ्करः च अस्मि वित्त-ईशः यक्ष-रक्षसाम् ।
वसूनाम् पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥२३॥
पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः ॥२४॥
महर्षीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम् ।
यज्ञानाम् जप-यज्ञः अस्मि स्थावराणाम् हिमालयः ॥२५॥
अश्वत्थः सर्व-वृक्षाणाम् देवर्षीणाम् च नारदः ।
गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः ॥२६॥
उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृत-उद्भवम् ।
ऐरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम् ॥२७॥
आयुधानाम् अहम् वज्रम् धेनूनाम् अस्मि कामधुक् ।
प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥२८॥
अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम् ।
पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥२९॥
प्रह्लादः च अस्मि दैत्यानाम् कालः कलयताम् अहम् ।
मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम् ॥३०॥
पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् ।
झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥३१॥
सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन ।
अध्यात्म-विद्या विद्यानाम् वादः प्रवदताम् अहम् ॥३२॥
अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च ।
अहम् एव अक्षयः कालः धाता अहम् विश्वतोमुखः ॥३३॥
मृत्युः सर्व-हरः च अहम् उद्भवः च भविष्यताम् ।
कीर्तिः श्रीः वाक् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा ॥३४॥
बृहत्-साम तथा साम्नाम् गायत्री छन्दसाम् अहम् ।
मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः ॥३५॥
द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् ।
जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् ॥३६॥
वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः ।
मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥३७॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥३८॥
दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् ।
मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम् ॥३८॥
यत् च अपि सर्व-भूतानाम् बीजम् तत् अहम् अर्जुन ।
न तत् अस्ति विना यत् स्यात् मया भूतम् चर-अचरम् ॥३९॥
न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप ।
एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥४०॥
यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा ।
तत् तत् अवगच्छ त्वम् मम तेजः अंश-सम्भवम् ॥४१॥
अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन ।
विष्टभ्य अहम् इदम् कृत्स्नम् एक-अंशेन स्थितः जगत् ॥४२॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे विभूति-योगः नाम दशमः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ एकादशः अध्यायः । विश्व-रूप-दर्शन-योगः ।
अर्जुनः उवाच ।
मत् अनुग्रहाय परमम् गुह्यम् अध्यात्म-संज्ञितम् ।
यत् त्वया उक्तम् वचः तेन मोहः अयम् विगतः मम ॥१॥
भव अपि अयौ हि भूतानाम् श्रुतौ विस्तरशः मया ।
त्वत्तः कमल-पत्र-अक्ष माहात्म्यम् अपि च अव्ययम् ॥२॥
एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर ।
द्रष्टुम् इच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तम ॥३॥
मन्यसे यदि तत् शक्यम् मया द्रष्टुम् इति प्रभो ।
योगेश्वर ततः मे त्वम् दर्शय आत्मानम् अव्ययम् ॥४॥
श्रीभगवान् उवाच ।
पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः ।
नाना-विधानि दिव्यानि नाना-वर्ण-आकृतीनि च ॥५॥
पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुताः तथा ।
बहूनि अदृष्ट-पूर्वाणि पश्य आश्चर्याणि भारत ॥६॥
इह एकस्थम् जगत् कृत्स्नम् पश्य अद्य सचर-अचरम् ।
मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥७॥
न तु माम् शक्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा ।
दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥८॥
सञ्जयः उवाच ।
एवम् उक्त्वा ततः राजन् महा-योग-ईश्वरः हरिः ।
दर्शयामास पार्थाय परमम् रूपम् ऐश्वरम् ॥९॥
अनेक-वक्त्र-नयनम् अनेक-अद्भुत-दर्शनम् ।
अनेक-दिव्य-आभरणम् दिव्य-अनेक-उद्यत-आयुधम् ॥१०॥
दिव्य-माल्य-अम्बर-धरम् दिव्य-गन्ध-अनुलेपनम् ।
सर्व-आश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् ॥११॥
दिवि सूर्य-सहस्रस्य भवेत् युगपत् उत्थिता ।
यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः ॥१२॥
तत्र एकस्थम् जगत् कृत्स्नम् प्रविभक्तम् अनेकधा ।
अपश्यत् देव-देवस्य शरीरे पाण्डवः तदा ॥१३॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥१४॥
ततः सः विस्मय-आविष्टः हृष्ट-रोमा धनञ्जयः ।
प्रणम्य शिरसा देवम् कृत-अञ्जलिः अभाषत ॥१४॥
अर्जुनः उवाच ।
पश्यामि देवान् तव देव देहे सर्वान् तथा भूत-विशेष-सङ्घान् ।
ब्रह्माणम् ईशम् कमलआसनस्थं ऋषीन् च सर्वान् उरगान् च दिव्यान्॥१५॥
अनेक-बाहु-उदर-वक्त्र-नेत्रम् पश्यामि त्वाम् सर्वतः अनन्त-रूपम् ।
न अन्तम् न मध्यं न पुनः तव आदिम् पश्यामि विश्वेश्वर विश्वरूप॥१६॥
किरीटिनम् गदिनम् चक्रिणम् च तेजो-राशिम् सर्वतः दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यम् समन्तात् दीप्तअनलअर्क द्युतिम्अप्रमेयम्॥१७॥
त्वम् अक्षरम् परमम् वेदितव्यम् त्वम् अस्य विश्वस्य परम् निधानम् ।
त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनः त्वम् पुरुषः मतः मे ॥१८॥
अनादि-मध्य-अन्तम् अनन्त-वीर्यम् अनन्त-बाहुम् शशि-सूर्य-नेत्रम् ।
पश्यामि त्वाम् दीप्तहुताशवक्त्रम् स्वतेजसा विश्वम् इदम् तपन्तम् ॥१९॥
द्यावा-पृथिव्योः इदम् अन्तरम् हि व्याप्तम् त्वया एकेन दिशः च सर्वाः ।
दृष्ट्वाअद्भुतम् रूपमुग्रं तव इदम् लोक-त्रयम् प्रव्यथितम् महात्मन्॥२०॥
अमी हि त्वाम् सुर-सङ्घाः विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति ।
स्वस्ति इति उक्त्वा महर्षि-सिद्ध-सङ्घाःस्तुवन्ति त्वाम् स्तुतिभिःपुष्कलाभिः॥२१॥
रुद्र-आदित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च उष्मपाः च ।
गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः वीक्षन्ते त्वाम् विस्मिताः च एव सर्वे॥२२॥
रूपम् महत् ते बहु-वक्त्र-नेत्रम् महा-बाहो बहु-बाहु-ऊरु-पादम् ।
बहु-उदरम् बहु-दंष्ट्रा-करालम् दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम्॥२३॥
नभः-स्पृशम् दीप्तम् अनेक-वर्णम् व्यात्त-आननम् दीप्त-विशाल-नेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथित-अन्तर-आत्मा धृतिम् न विन्दामि शमम् च विष्णो॥२४॥
दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वा एव काल-अनल-सन्निभानि ।
दिशः न जाने न लभे च शर्म प्रसीद देवेश जगत्-निवास ॥२५॥
अमी च त्वाम् धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपाल-सङ्घैः ।
भीष्मः द्रोणः सूत-पुत्रः तथा असौ सह अस्मदीयैः अपि योध-मुख्यैः॥२६॥
वक्त्राणि ते त्वरमाणाः विशन्ति दंष्ट्रा-करालानि भयानकानि ।
केचित् विलग्नाः दशन-अन्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तम-अङ्गैः ॥२७॥
यथा नदीनाम् बहवः अम्बु-वेगाः समुद्रम् एव अभिमुखाः द्रवन्ति ।
तथा तव अमी नर-लोक-वीराः विशन्ति वक्त्राणि अभिविज्वलन्ति ॥२८॥
यथा प्रदीप्तम् ज्वलनम् पतङ्गाः विशन्ति नाशाय समृद्ध-वेगाः ।
तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्ध-वेगाः॥२९॥
लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः ।
तेजोभिः आपूर्य जगत् समग्रम् भासः तव उग्राः प्रतपन्ति विष्णो ॥३०॥
आख्याहि मे को भवानुग्ररूपो नमः अस्तु ते देववर प्रसीद ।
विज्ञातुम् इच्छामि भवन्तम् आद्यम् न हि प्रजानामि तव प्रवृत्तिम् ॥३१॥
श्रीभगवान् उवाच ।
कालः अस्मि लोक-क्षय-कृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः॥३२॥
तस्मात् त्वम् उत्तिष्ठ यशः लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम् ।
मया एव एते निहताः पूर्वम् एव निमित्त-मात्रम् भव सव्य-साचिन् ॥३३॥
द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा अन्यान् अपि योध-वीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठाः युध्यस्व जेताअसि रणे सपत्नान्॥३४॥
सञ्जयः उवाच ।
एतत् श्रुत्वा वचनम् केशवस्य कृत-अञ्जलिः वेपमानः किरीटी ।
नमस्कृत्वा भूयः एव आह कृष्णम् सगद्गदम् भीत-भीतः प्रणम्य ॥३५॥
अर्जुनः उवाच ।
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च ।
रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥३६॥
कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदि-कर्त्रे ।
अनन्त देवेश जगत् निवास त्वमक्षरं सत् असत् तत् परं यत् ॥३७॥
त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परम् निधानम् ।
वेत्ता असि वेद्यं च परम् च धाम त्वया ततं विश्वम्अनन्त-रूप ॥३८॥
वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वम् प्रपितामहः च ।
नमः नमःतेअस्तु सहस्र-कृत्वः पुनःच भूयःअपि नमः नमः ते ॥३९॥
नमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व ।
अनन्त-वीर्य-अमित-विक्रमः त्वम् सर्वम् समाप्नोषि ततःअसि सर्वः ॥४०॥
सखा इति मत्वा प्रसभम् यत् उक्तम् हे कृष्ण हे यादव हे सखा इति ।
अजानता महिमानम् तव इदम् मया प्रमादात् प्रणयेन वा अपि ॥४१॥
यत् च अवहासार्थम् असत् कृतः असि विहार-शय्या-आसन-भोजनेषु ।
एकःअथवाअपिअच्युत तत्समक्षम् तत्क्षामये त्वाम्अहम् अप्रमेयम् ॥४२॥
पिता असि लोकस्य चर-अचरस्य त्वम् अस्य पूज्यः च गुरुः गरीयान् ।
न त्वत्समःअस्तिअभ्यधिकः कुतःअन्यः लोक-त्रयेअपिअप्रतिम-प्रभाव॥४३॥
तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पिताइव पुत्रस्य सखा इव सख्युः प्रियः प्रियायाःअर्हसि देव सोढुम्॥४४॥
अदृष्ट-पूर्वम् हृषितः अस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनः मे ।
तत् एव मे दर्शय देव रूपम् प्रसीद देवेश जगत्-निवास ॥४५॥
किरीटिनम् गदिनम् चक्र-हस्तम् इच्छामि त्वाम् द्रष्टुम्अहम् तथा एव ।
तेन एव रूपेण चतुः-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ॥४६॥
श्रीभगवान् उवाच ।
मया प्रसन्नेन तव अर्जुन इदम् रूपम् परम् दर्शितम् आत्म-योगात् ।
तेजोमयम् विश्वम्अनन्तम् आद्यम् यत् मे त्वत् अन्येन न दृष्ट-पूर्वम्॥४७॥
न वेद-यज्ञ-अध्ययनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः ।
एवम् रूपः शक्यः अहम् नृ-लोके द्रष्टुम् त्वत् अन्येन कुरु-प्रवीर ॥४८॥
मा ते व्यथा मा च विमूढ-भावः दृष्ट्वा रूपम् घोरम् ईदृक् मम इदम् ।
व्यपेत-भीः प्रीत-मनाः पुनः त्वम् तत् एव मे रूपम् इदम् प्रपश्य ॥४९॥
सञ्जयः उवाच ।
इति अर्जुनम् वासुदेवः तथा उक्त्वा स्वकम् रूपम् दर्शयामास भूयः ।
आश्वासयामास च भीतम् एनम् भूत्वा पुनः सौम्य-वपुः महात्मा ॥५०॥
अर्जुनः उवाच ।
दृष्ट्वा इदम् मानुषम् रूपम् तव सौम्यम् जनार्दन ।
इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिम् गतः ॥५१॥
श्रीभगवान् उवाच ।
सुदुर्दर्शम् इदम् रूपम् दृष्टवान् असि यत् मम ।
देवाः अपि अस्य रूपस्य नित्यम् दर्शन-काङ्क्षिणः ॥५२॥
न अहम् वेदैः न तपसा न दानेन न च इज्यया ।
शक्यः एवम्-विधः द्रष्टुम् दृष्टवान् असि माम् यथा ॥५३॥
भक्त्या तु अनन्यया शक्यः अहम् एवम्-विधः अर्जुन ।
ज्ञातुम् द्रष्टुम् च तत्त्वेन प्रवेष्टुम् च परन्तप ॥५४॥
मत्-कर्म-कृत् मत्-परमः मत्-भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः सः माम् एति पाण्डव ॥५५॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे विश्व-रूप-दर्शन-योगः नाम एकादशः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ द्वादशः अध्यायः । भक्ति-योगः ।
अर्जुनः उवाच ।
एवम् सतत-युक्ताः ये भक्ताः त्वाम् पर्युपासते ।
ये च अपि अक्षरम् अव्यक्तम् तेषाम् के योग-वित्तमाः ॥१२-१॥
श्रीभगवान् उवाच ।
मयि आवेश्य मनः ये माम् नित्य-युक्ताः उपासते ।
श्रद्धया परया उपेताः ते मे युक्ततमाः मताः ॥१२-२॥
ये तु अक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते ।
सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् ॥१२-३॥
सन्नियम्य इन्द्रिय-ग्रामम् सर्वत्र सम-बुद्धयः ।
ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥१२-४॥
क्लेशः अधिकतरः तेषाम् अव्यक्त-आसक्त-चेतसाम् ॥
अव्यक्ता हि गतिः दुःखम् देहवद्भिः अवाप्यते ॥१२-५॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः ।
अनन्येन एव योगेन माम् ध्यायन्तः उपासते ॥१२-६॥
तेषाम् अहम् समुद्धर्ता मृत्यु-संसार-सागरात् ।
भवामि न चिरात् पार्थ मयि आवेशित-चेतसाम् ॥१२-७॥
मयि एव मनः आधत्स्व मयि बुद्धिम् निवेशय ।
निवसिष्यसि मयि एव अतः ऊर्ध्वम् न संशयः ॥१२-८॥
अथ चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् ।
अभ्यास-योगेन ततः माम् इच्छ आप्तुम् धनञ्जय ॥१२-९॥
अभ्यासे अपि असमर्थः असि मत्-कर्म-परमः भव ।
मत्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥१२-१०॥
अथ एतत् अपि अशक्तः असि कर्तुम् मत्-योगम् आश्रितः ।
सर्व-कर्म-फल-त्यागम् ततः कुरु यत-आत्मवान् ॥१२-११॥
श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानम् विशिष्यते ।
ध्यानात् कर्म-फल-त्यागः त्यागात् शान्तिः अनन्तरम् ॥१२-१२॥
अद्वेष्टा सर्व-भूतानां मैत्रः करुणः एव च ।
निर्ममः निरहङ्कारः सम-दुःख-सुखः क्षमी ॥१२-१३॥
सन्तुष्टः सततम् योगी यत-आत्मा दृढ-निश्चयः ।
मयि अर्पित-मनः-बुद्धिः यः मत्-भक्तः सः मे प्रियः ॥१२-१४॥
यस्मात् न उद्विजते लोकः लोकात् न उद्विजते च यः ।
हर्ष-आमर्ष-भय-उद्वेगैः मुक्तः यः सः च मे प्रियः ॥१२-१५॥
अनपेक्षः शुचिः दक्षः उदासीनः गत-व्यथः ।
सर्व-आरम्भ-परित्यागी यः मत्-भक्तः सः मे प्रियः ॥१२-१६॥
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभ-अशुभ-परित्यागी भक्तिमान् यः सः मे प्रियः ॥१२-१७॥
समः शत्रौ च मित्रे च तथा मान-अपमानयोः ।
शीत-उष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥१२-१८॥
तुल्य-निन्दा-स्तुतिः मौनी सन्तुष्टः येन केनचित् ।
अनिकेतः स्थिर-मतिः भक्तिमान् मे प्रियः नरः ॥१२-१९॥
ये तु धर्म्य-अमृतम् इदम् यथा उक्तम् पर्युपासते ।
श्रद्दधानाः मत्-परमाः भक्ताः ते अतीव मे प्रियाः ॥१२-२०॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे भक्ति-योगः नाम द्वादशः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ त्रयोदशः अध्यायः । क्षेत्र-क्षेत्रज्ञ-विभाग-योगः ।
अर्जुनः उवाच ।
प्रकृतिम् पुरुषम् च एव क्षेत्रम् क्षेत्रज्ञम् एव च ।
एतत् वेदितुम् इच्छामि ज्ञानम् ज्ञेयम् च केशव ॥०॥
श्रीभगवान् उवाच ।
इदम् शरीरम् कौन्तेय क्षेत्रम् इति अभिधीयते ।
एतत् यः वेत्ति तम् प्राहुः क्षेत्रज्ञः इति तत्-विदः ॥१॥
क्षेत्रज्ञम् च अपि माम् विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोः ज्ञानम् यत् तत् ज्ञानम् मतम् मम ॥२॥
तत् क्षेत्रम् यत् च यादृक् च यत् विकारि यतः च यत् ।
सः च यः यत् प्रभावः च तत् समासेन मे शृणु ॥३॥
ऋषिभिः बहुधा गीतम् छन्दोभिः विविधैः पृथक् ।
ब्रह्म-सूत्र-पदैः च एव हेतुमद्भिः विनिश्चितैः ॥४॥
महाभूतानि अहङ्कारो बुद्धिः अव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च च इन्द्रियगोचराः ॥५॥
इच्छा द्वेषः सुखम् दुःखम् संघातः चेतना धृतिः ।
एतत् क्षेत्रम् समासेन सविकारम् उदाहृतम् ॥६॥
अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् ।
आचार्य-उपासनम् शौचम् स्थैर्यम् आत्म-विनिग्रहः ॥७॥
इन्द्रिय-अर्थेषु वैराग्यम् अनहंकारः एव च ।
जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम् ॥८॥
असक्तिः अनभिष्वङ्गः पुत्र-दार-गृह-आदिषु ।
नित्यम् च सम-चित्तत्वम् इष्ट अनिष्ट-उपपत्तिषु ॥९॥
मयि च अनन्य-योगेन भक्तिः अव्यभिचारिणी ।
विविक्त-देश-सेवित्वम् अरतिः जन-संसदि ॥१०॥
अध्यात्म-ज्ञान-नित्यत्वम् तत्त्व-ज्ञान-अर्थ-दर्शनम् ।
एतत् ज्ञानम् इति प्रोक्तम् अज्ञानम् यत् अतः अन्यथा ॥११॥
ज्ञेयम् यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते ।
अनादिमत् परम् ब्रह्म न सत् तत् न असत् उच्यते ॥१२॥
सर्वतः पाणि-पादम् तत् सर्वतः अक्षि-शिरः-मुखम् ।
सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥१३॥
सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जितम् ।
असक्तम् सर्व-भृत् च एव निर्गुणम् गुण-भोक्तृ च ॥१४॥
बहिः-अन्तः च भूतानाम् अचरम् चरम् एव च ।
सूक्ष्मत्वात् तत् अविज्ञेयम् दूरस्थम् च अन्तिके च तत् ॥१५॥
अविभक्तम् च भूतेषु विभक्तम् इव च स्थितम् ।
भूत-भर्तृ च तत् ज्ञेयम् ग्रसिष्णु प्रभविष्णु च ॥१६॥
ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते ।
ज्ञानम् ज्ञेयम् ज्ञानगम्यम् हृदि सर्वस्य धिष्ठितम् ॥१७॥
इति क्षेत्रम् तथा ज्ञानम् ज्ञेयम् च उक्तम् समासतः ।
मत्-भक्तः एतत् विज्ञाय मत्-भावाय उपपद्यते ॥१८॥
प्रकृतिम् पुरुषम् च एव विद्धि अनादी उभाउ अपि ।
विकारान् च गुणान् च एव विद्धि प्रकृति-सम्भवान् ॥१९॥
कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिः उच्यते ।
पुरुषः सुख-दुःखानाम् भोक्तृत्वे हेतुः उच्यते ॥२०॥
पुरुषः प्रकृतिस्थः हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणम् गुण-सङ्गः अस्य सत् असत् योनि-जन्मसु ॥२१॥
उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥२२॥
यः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह ।
सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥२३॥
ध्यानेन आत्मनि पश्यन्ति केचित् आत्मानम् आत्मना ।
अन्ये साङ्ख्येन योगेन कर्म-योगेन च अपरे ॥२४॥
अन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्यः उपासते ।
ते अपि च अतितरन्ति एव मृत्युम् श्रुति-परायणाः ॥२५॥
यावत् सञ्जायते किञ्चित् सत्त्वम् स्थावर-जङ्गमम् ।
क्षेत्र-क्षेत्रज्ञ-संयोगात् तत् विद्धि भरतर्षभ ॥२६॥
समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् ।
विनश्यत्सु अविनश्यन्तम् यः पश्यति सः पश्यति ॥२७॥
समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ।
न हिनस्ति आत्मना आत्मानम् ततः याति पराम् गतिम् ॥२८॥
प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथा आत्मानम् अकर्तारम् सः पश्यति ॥२९॥
यदा भूत-पृथक्-भावम् एकस्थम् अनुपश्यति ।
ततः एव च विस्तारम् ब्रह्म सम्पद्यते तदा ॥३०॥
अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः ।
शरीरस्थः अपि कौन्तेय न करोति न लिप्यते ॥३१॥
यथा सर्वगतम् सौक्ष्म्यात् आकाशम् न उपलिप्यते ।
सर्वत्र-अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥३२॥
यथा प्रकाशयति एकः कृत्स्नम् लोकम् इमम् रविः ।
क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत ॥३३॥
क्षेत्र-क्षेत्रज्ञयोः एवम् अन्तरम् ज्ञान-चक्षुषा ।
भूत-प्रकृति-मोक्षम् च ये विदुः यान्ति ते परम् ॥३४॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे क्षेत्र-क्षेत्रज्ञ-विभाग-योगः नाम त्रयोदशः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ चतुर्दशः अध्यायः । गुण-त्रय-विभाग-योगः ।
श्रीभगवान् उवाच ।
परम् भूयः प्रवक्ष्यामि ज्ञानानाम् ज्ञानम् उत्तमम् ।
यत् ज्ञात्वा मुनयः सर्वे पराम् सिद्धिम् इतः गताः ॥१॥
इदम् ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च ॥२॥
मम योनिः महत् ब्रह्म तस्मिन् गर्भम् दधामि अहम् ।
सम्भवः सर्व-भूतानाम् ततः भवति भारत ॥३॥
सर्व-योनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासाम् ब्रह्म महत् योनिः अहम् बीज-प्रदः पिता ॥४॥
सत्त्वम् रजः तमः इति गुणाः प्रकृति-सम्भवाः ।
निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥५॥
तत्र सत्त्वम् निर्मलत्वात् प्रकाशकम् अनामयम् ।
सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन च अनघ ॥६॥
रजः राग-आत्मकम् विद्धि तृष्णा-सङ्ग-समुद्भवम् ।
तत् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥७॥
तमः तु अज्ञानजम् विद्धि मोहनम् सर्व-देहिनाम् ।
प्रमाद-आलस्य-निद्राभिः तत् निबध्नाति भारत ॥८॥
सत्त्वम् सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयति उत ॥९॥
रजः तमः च अभिभूय सत्त्वम् भवति भारत ।
रजः सत्त्वम् तमः च एव तमः सत्त्वम् रजः तथा ॥१०॥
सर्व-द्वारेषु देहे अस्मिन् प्रकाशः उपजायते ।
ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वम् इति उत ॥११॥
लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा ।
रजसि एतानि जायन्ते विवृद्धे भरतर्षभ ॥१२॥
अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च ।
तमसि एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥१३॥
यदा सत्त्वे प्रवृद्धे तु प्रलयम् याति देह-भृत् ।
तदा उत्तम-विदाम् लोकान् अमलान् प्रतिपद्यते ॥१४॥
रजसि प्रलयम् गत्वा कर्म-सङ्गिषु जायते ।
तथा प्रलीनः तमसि मूढ-योनिषु जायते ॥१५॥
कर्मणः सुकृतस्य आहुः सात्त्विकम् निर्मलम् फलम् ।
रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् ॥१६॥
सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च ।
प्रमाद-मोहौ तमसः भवतः अज्ञानम् एव च ॥१७॥
ऊर्ध्वम् गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः ।
जघन्य-गुण-वृत्तिस्थाः अधः गच्छन्ति तामसाः ॥१८॥
न अन्यम् गुणेभ्यः कर्तारम् यदा द्रष्टा अनुपश्यति ।
गुणेभ्यः च परम् वेत्ति मत्-भावम् सः अधिगच्छति ॥१९॥
गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् ।
जन्म-मृत्यु-जरा-दुःखैः विमुक्तः अमृतम् अश्नुते ॥२०॥
अर्जुनः उवाच ।
कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो ।
किम् आचारः कथम् च एतान् त्रीन् गुणान् अतिवर्तते ॥२१॥
श्रीभगवान् उवाच ।
प्रकाशम् च प्रवृत्तिम् च मोहम् एव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२॥
उदासीनवत् आसीनः गुणैः यः न विचाल्यते ।
गुणाः वर्तन्ते इति एवम् यः अवतिष्ठति न इङ्गते ॥२३॥
सम-दुःख-सुखः स्वस्थः सम-लोष्ट-अश्म-काञ्चनः ।
तुल्य-प्रिय-अप्रियः धीरः तुल्य-निन्दा-आत्म-संस्तुतिः ॥२४॥
मान-अपमानयोः तुल्यः तुल्यः मित्र-अरि-पक्षयोः ।
सर्व-आरम्भ-परित्यागी गुणातीतः सः उच्यते ॥२५॥
माम् च यः अव्यभिचारेण भक्ति-योगेन सेवते ।
सः गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते ॥२६॥
ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्य एकान्तिकस्य च ॥२७॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे गुण-त्रय-विभाग-योगः नाम चतुर्दशः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ पञ्चदशः अध्यायः । पुरुषोत्तम-योगः ।
श्रीभगवान् उवाच ।
ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थम् प्राहुः अव्ययम् ।
छन्दांसि यस्य पर्णानि यः तम् वेद सः वेदवित् ॥१॥
अधः च ऊर्ध्वम् प्रसृताः तस्य शाखाः गुण-प्रवृद्धाः विषय-प्रवालाः ।
अधः च मूलानि अनुसन्ततानि कर्म-अनुबन्धीनि मनुष्य-लोके ॥२॥
न रूपम्अस्य इह तथाउपलभ्यते नअन्तः न चआदिः न च सम्प्रतिष्ठा।
अश्वत्थम् एनम् सुविरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥३॥
ततः पदम् तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः ।
तम् एव च आद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥
निर्मान-मोहाः जितसङ्गदोषाः अध्यात्म-नित्याः विनिवृत्त-कामाः ।
द्वन्द्वैःविमुक्ताःसुखदुःख-संज्ञैः गच्छन्ति अमूढाः पदम् अव्ययं तत्॥५॥
न तत् भासयते सूर्यः न शशाङ्कः न पावकः ।
यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम ॥६॥
मम एव अंशः जीव-लोके जीव-भूतः सनातनः ।
मनः-षष्ठानि-इन्द्रियाणि प्रकृति-स्थानि कर्षति ॥७॥
शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः ।
गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥८॥
श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च ।
अधिष्ठाय मनः च अयम् विषयान् उपसेवते ॥९॥
उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण-अन्वितम् ।
विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥१०॥
यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अवस्थितम् ।
यतन्तः अपि अकृत-आत्मानः न एनम् पश्यन्ति अचेतसः ॥११॥
यत् आदित्य-गतं तेजः जगत् भासयते अखिलम् ।
यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥१२॥
गाम् आविश्य च भूतानि धारयामि अहम् ओजसा ।
पुष्णामि च ओषधीः सर्वाः सोमः भूत्वा रसात्मकः ॥१३॥
अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः ।
प्राण-अपान-सम-आयुक्तः पचामि अन्नम् चतुर्विधम् ॥१४॥
सर्वस्य च अहम् हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनम् च ।
वेदैः च सर्वैः अहम् एव वेद्यः वेदान्त-कृत् वेद-वित् एव च अहम्॥१५॥
द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च ।
क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥१६॥
उत्तमः पुरुषः तु अन्यः परम्-आत्मा इति उदाहृतः ।
यः लोक-त्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥१७॥
यस्मात् क्षरम् अतीतः अहम् अक्षरात् अपि च उत्तमः ।
अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥
यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् ।
सः सर्व-वित् भजति माम् सर्व-भावेन भारत ॥१९॥
इति गुह्यतमम् शास्त्रम् इदम् उक्तम् मया अनघ ।
एतत् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥२०॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे पुरुषोत्तम-योगः नाम पञ्चदशः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ षोडशः अध्यायः । दैव-आसुर-सम्पत्-विभाग-योगः ।
श्रीभगवान् उवाच ।
अभयम् सत्त्व-संशुद्धिः ज्ञान-योग-व्यवस्थितिः ।
दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ॥१॥
अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् ।
दया भूतेषु अलोलुप्त्वम् मार्दवम् ह्रीः अचापलम् ॥२॥
तेजः क्षमा धृतिः शौचम् अद्रोहः न अति-मानिता ।
भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत ॥३॥
दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च ।
अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥४॥
दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता ।
मा शुचः सम्पदम् दैवीम् अभिजातः असि पाण्डव ॥५॥
द्वौ भूत-सर्गौ लोके अस्मिन् दैवः आसुरः एव च ।
दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे शृणु ॥६॥
प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः ।
न शौचम् न अपि च आचारः न सत्यम् तेषु विद्यते ॥७॥
असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् ।
अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥८॥
एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः अल्प-बुद्धयः ।
प्रभवन्ति उग्र-कर्माणः क्षयाय जगतः अहिताः ॥९॥
कामम् आश्रित्य दुष्पूरम् दम्भ-मान-मद-अन्विताः ।
मोहात् गृहीत्वा असत् ग्राहान् प्रवर्तन्ते अशुचि-व्रताः ॥१०॥
चिन्ताम् अपरिमेयाम् च प्रलयान्ताम् उपाश्रिताः ।
काम-उपभोग-परमाः एतावत् इति निश्चिताः ॥११॥
आशा-पाश-शतैः बद्धाः काम-क्रोध-परायणाः ।
ईहन्ते काम-भोगार्थम् अन्यायेन अर्थ-सञ्चयान् ॥१२॥
इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् ।
इदम् अस्ति इदम् अपि मे भविष्यति पुनः धनम् ॥१३॥
असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि ।
ईश्वरः अहम् अहं भोगी सिद्धः अहम् बलवान् सुखी ॥१४॥
आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया ।
यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान-विमोहिताः ॥१५॥
अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः ।
प्रसक्ताः काम-भोगेषु पतन्ति नरके अशुचौ ॥१६॥
आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः ।
यजन्ते नाम-यज्ञैः ते दम्भेन अविधि-पूर्वकम् ॥१७॥
अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः ।
माम् आत्म-पर-देहेषु प्रद्विषन्तः अभ्यसूयकाः ॥१८॥
तान् अहम् द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु ॥१९॥
आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि ।
माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमाम् गतिम् ॥२०॥
त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः ।
कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् ॥२१॥
एतैः विमुक्तः कौन्तेय तमो-द्वारैः त्रिभिः नरः ।
आचरति आत्मनः श्रेयः ततः याति पराम् गतिम् ॥२२॥
यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः ।
न सः सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् ॥२३॥
तस्मात् शास्त्रम् प्रमाणम् ते कार्य-अकार्य-व्यवस्थितौ ।
ज्ञात्वा शास्त्र-विधान-उक्तम् कर्म कर्तुम् इह अर्हसि ॥२४॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे दैव-आसुर-सम्पत्-विभाग-योगः नाम षोडशः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ सप्तदशः अध्यायः । श्रद्धा-त्रय-विभाग-योगः ।
अर्जुनः उवाच ।
ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः ।
तेषाम् निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥१॥
श्रीभगवान् उवाच ।
त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा ।
सात्त्विकी राजसी च एव तामसी च इति ताम् शृणु ॥२॥
सत्त्व-अनुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयः अयम् पुरुषः यः यत् श्रद्धः सः एव सः ॥३॥
यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः ।
प्रेतान् भूतगणान् च अन्ये यजन्ते तामसाः जनाः ॥४॥
अशास्त्र-विहितम् घोरम् तप्यन्ते ये तपः जनाः ।
दम्भ-अहंकार-संयुक्ताः काम-राग-बल-अन्विताः ॥५॥
कर्षयन्तः शरीरस्थम् भूत-ग्रामम् अचेतसः ।
माम् च एव अन्तः-शरीरस्थम् तान् विद्धि आसुर-निश्चयान् ॥६॥
आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः ।
यज्ञः तपः तथा दानम् तेषाम् भेदम् इमम् शृणु ॥७॥
आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः ।
रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः ॥८॥
कट्वम्ल-लवण-अति-उष्ण-तीक्ष्ण-रूक्ष-विदाहिनः ।
आहाराः राजसस्य इष्टाः दुःख-शोक-आमय-प्रदाः ॥९॥
यातयामम् गत-रसम् पूति पर्युषितम् च यत् ।
उच्छिष्टम् अपि च अमेध्यम् भोजनम् तामस-प्रियम् ॥१०॥
अफल-आकाङ्क्षिभिः यज्ञः विधि-दृष्टः यः इज्यते ।
यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः ॥११॥
अभिसन्धाय तु फलम् दम्भार्थम् अपि च एव यत् ।
इज्यते भरत-श्रेष्ठ तम् यज्ञम् विद्धि राजसम् ॥१२॥
विधि-हीनम् असृष्ट-अन्नम् मन्त्र-हीनम् अदक्षिणम् ।
श्रद्धा-विरहितम् यज्ञम् तामसम् परिचक्षते ॥१३॥
देव-द्विज-गुरु-प्राज्ञ-पूजनम् शौचम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते ॥१४॥
अनुद्वेगकरम् वाक्यम् सत्यम् प्रिय-हितम् च यत् ।
स्वाध्याय-अभ्यसनम् च एव वाङ्मयम् तपः उच्यते ॥१५॥
मनः-प्रसादः सौम्यत्वम् मौनम् आत्म-विनिग्रहः ।
भाव-संशुद्धिः इति एतत् तपः मानसम् उच्यते ॥१६॥
श्रद्धया परया तप्तम् तपः तत् त्रिविधम् नरैः ।
अफल-आकाङ्क्षिभिः युक्तैः सात्त्विकम् परिचक्षते ॥१७॥
सत्कार-मान-पूजार्थम् तपः दम्भेन च एव यत् ।
क्रियते तत् इह प्रोक्तम् राजसम् चलम् अध्रुवम् ॥१८॥
मूढ-ग्राहेण आत्मनः यत् पीडया क्रियते तपः ।
परस्य उत्सादनार्थम् वा तत् तामसम् उदाहृतम् ॥१९॥
दातव्यम् इति यत् दानम् दीयते अनुपकारिणे ।
देशे काले च पात्रे च तत् दानम् सात्त्विकम् स्मृतम् ॥२०॥
यत् तु प्रति-उपकारार्थम् फलम् उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टम् तत् दानम् राजसम् स्मृतम् ॥२१॥
अदेश-काले यत् दानम् अपात्रेभ्यः च दीयते ।
असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् ॥२२॥
ॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः ।
ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥२३॥
तस्मात् ॐ इति उदाहृत्य यज्ञ-दान-तपः-क्रियाः ।
प्रवर्तन्ते विधान-उक्ताः सततम् ब्रह्म-वादिनाम् ॥२४॥
तत् इति अनभिसन्धाय फलम् यज्ञ-तपः-क्रियाः ।
दान-क्रियाः च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥२५॥
सत्-भावे साधु-भावे च सत् इति एतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सत् शब्दः पार्थ युज्यते ॥२६॥
यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते ।
कर्म च एव तत्-अर्थीयम् सत् इति एव अभिधीयते ॥२७॥
अश्रद्धया हुतम् दत्तम् तपः तप्तम् कृतम् च यत् ।
असत् इति उच्यते पार्थ न च तत् प्रेत्य नो इह ॥२८॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे श्रद्धा-त्रय-विभाग-योगः नाम सप्तदशः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८
अथ अष्टादशः अध्यायः । मोक्ष-संन्यास-योगः ।
अर्जुनः उवाच ।
संन्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥१॥
श्रीभगवान् उवाच ।
काम्यानाम् कर्मणाम् न्यासम् संन्यासम् कवयः विदुः ।
सर्व-कर्म-फल-त्यागम् प्राहुः त्यागम् विचक्षणाः ॥२॥
त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः ।
यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे ॥३॥
निश्चयम् शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागः हि पुरुष-व्याघ्र त्रिविधः सम्प्रकीर्तितः ॥४॥
यज्ञ-दान-तपः-कर्म न त्याज्यम् कार्यम् एव तत् ।
यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् ॥५॥
एतानि अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च ।
कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् ॥६॥
नियतस्य तु संन्यासः कर्मणः न उपपद्यते ।
मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥७॥
दुःखम् इति एव यत् कर्म काय-क्लेश-भयात् त्यजेत् ।
सः कृत्वा राजसम् त्यागम् न एव त्याग-फलम् लभेत् ॥८॥
कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन ।
सङ्गम् त्यक्त्वा फलम् च एव सः त्यागः सात्त्विकः मतः ॥९॥
न द्वेष्टि अकुशलम् कर्म कुशले न अनुषज्जते ।
त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः ॥१०॥
न हि देह-भृता शक्यम् त्यक्तुम् कर्माणि अशेषतः ।
यः तु कर्म-फल-त्यागी सः त्यागी इति अभिधीयते ॥११॥
अनिष्टम् इष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् ।
भवति अत्यागिनाम् प्रेत्य न तु संन्यासिनाम् क्वचित् ॥१२॥
पञ्च एतानि महा-बाहो कारणानि निबोध मे ।
साङ्ख्ये कृत-अन्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥१३॥
अधिष्ठानम् तथा कर्ता करणम् च पृथक्-विधम् ।
विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पञ्चमम् ॥१४॥
शरीर-वाक्-मनोभिः यत् कर्म प्रारभते नरः ।
न्याय्यम् वा विपरीतं वा पञ्च एते तस्य हेतवः ॥१५॥
तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः ।
पश्यति अकृत-बुद्धित्वात् न सः पश्यति दुर्मतिः ॥१६॥
यस्य न अहंकृतः भावः बुद्धिः यस्य न लिप्यते ।
हत्वा अपि सः इमान् लोकान् न हन्ति न निबध्यते ॥१७॥
ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म-चोदना ।
करणम् कर्म कर्ता इति त्रिविधः कर्म-संग्रहः ॥१८॥
ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण-भेदतः ।
प्रोच्यते गुण-सङ्ख्याने यथावत् शृणु तानि अपि ॥१९॥
सर्व-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते ।
अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् ॥२०॥
पृथक्त्वेन तु यत् ज्ञानम् नाना-भावान् पृथक्-विधान् ।
वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् ॥२१॥
यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् ।
अतत्त्वार्थवत् अल्पम् च तत् तामसम् उदाहृतम् ॥२२॥
नियतम् सङ्ग-रहितम् अराग-द्वेषतः कृतम् ।
अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥२३॥
यत् तु काम-ईप्सुना कर्म साहंकारेण वा पुनः ।
क्रियते बहुल आयासम् तत् राजसम् उदाहृतम् ॥२४॥
अनुबन्धम् क्षयम् हिंसाम् अनपेक्ष्य च पौरुषम् ।
मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥२५॥
मुक्त-सङ्गः अनहं-वादी धृति-उत्साह-समन्वितः ।
सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ॥२६॥
रागी कर्म-फल-प्रेप्सुः लुब्धः हिंसात्मकः अशुचिः ।
हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः ॥२७॥
अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः ।
विषादी दीर्घ-सूत्री च कर्ता तामसः उच्यते ॥२८॥
बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् शृणु ।
प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥२९॥
प्रवृत्तिम् च निवृत्तिम् च कार्य-अकार्ये भय-अभये ।
बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥३०॥
यया धर्मम् अधर्मम् च कार्यम् च अकार्यम् एव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१॥
अधर्मम् धर्मम् इति या मन्यते तमसा आवृता ।
सर्व-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥३२॥
धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः ।
योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥३३॥
यया तु धर्म-काम-अर्थान् धृत्या धारयते अर्जुन ।
प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी ॥३४॥
यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५॥
सुखम् तु इदानीम् त्रिविधम् शृणु मे भरतर्षभ ।
अभ्यासात् रमते यत्र दुःखान्तम् च निगच्छति ॥३६॥
यत् तत् अग्रे विषम् इव परिणामे अमृत-उपमम् ।
तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म-बुद्धि-प्रसादजम् ॥३७॥
विषय-इन्द्रिय-संयोगात् यत् तत् अग्रे अमृत-उपमम् ।
परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् ॥३८॥
यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः ।
निद्रा-आलस्य-प्रमाद-उत्थम् तत् तामसम् उदाहृतम् ॥३९॥
न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः ।
सत्त्वम् प्रकृतिजैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः ॥४०॥
ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च परन्तप ।
कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥४१॥
शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च ।
ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभावजम् ॥४२॥
शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् ।
दानम् ईश्वर-भावः च क्षात्रम् कर्म स्वभावजम् ॥४३॥
कृषि-गौरक्ष्य-वाणिज्यम् वैश्य-कर्म स्वभावजम् ।
परिचर्या-आत्मकम् कर्म शूद्रस्य अपि स्वभावजम् ॥४४॥
स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नरः ।
स्वकर्म-निरतः सिद्धिम् यथा विन्दति तत् शृणु ॥४५॥
यतः प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् ।
स्वकर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः ॥४६॥
श्रेयान् स्वधर्मः विगुणः पर-धर्मात् स्वनुष्ठितात् ।
स्वभाव-नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥४७॥
सहजम् कर्म कौन्तेय सदोषम् अपि न त्यजेत् ।
सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥४८॥
असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः ।
नैष्कर्म्य-सिद्धिम् परमाम् संन्यासेन अधिगच्छति ॥४९॥
सिद्धिम् प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे ।
समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥५०॥
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१॥
विविक्त-सेवी लघु-आशी यत-वाक्-काय-मानसः ।
ध्यान-योग-परः नित्यम् वैराग्यम् समुपाश्रितः ॥५२॥
अहंकारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् ।
विमुच्य निर्ममः शान्तः ब्रह्म-भूयाय कल्पते ॥५३॥
ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मत्-भक्तिम् लभते पराम् ॥५४॥
भक्त्या माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः ।
ततः माम् तत्त्वतः ज्ञात्वा विशते तत् अनन्तरम् ॥५५॥
सर्व-कर्माणि अपि सदा कुर्वाणः मत्-व्यपाश्रयः ।
मत्-प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् ॥५६॥
चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः ।
बुद्धि-योगम् उपाश्रित्य मत्-चित्तः सततम् भव ॥५७॥
मत्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि ।
अथ चेत् त्वम् अहंकारात् न श्रोष्यसि विनङ्क्ष्यसि ॥५८॥
यत् अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे ।
मिथ्या एषः व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति ॥५९॥
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुम् न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥६०॥
ईश्वरः सर्व-भूतानाम् हृत्-देशे अर्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया ॥६१॥
तम् एव शरणम् गच्छ सर्व-भावेन भारत ।
तत् प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् ॥६२॥
इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरं मया ।
विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु ॥६३॥
सर्व-गुह्यतमम् भूयः शृणु मे परमम् वचः ।
इष्टः असि मे दृढम् इति ततः वक्ष्यामि ते हितम् ॥६४॥
मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु ।
माम् एव एष्यसि सत्यम् ते प्रतिजाने प्रियः असि मे ॥६५॥
सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज ।
अहम् त्वा सर्व-पापेभ्यः मोक्ष्ययिष्यामि मा शुचः ॥६६॥
इदम् ते न अतपस्काय न अभक्ताय कदाचन ।
न च अशुश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति ॥६७॥
यः इदम् परमम् गुह्यम् मत्-भक्तेषु अभिधास्यति ।
भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः ॥६८॥
न च तस्मात् मनुष्येषु कश्चित् मे प्रिय-कृत्तमः ।
भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥६९॥
अध्येष्यते च यः इमम् धर्म्यम् संवादम् आवयोः ।
ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः ॥७०॥
श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः ।
सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥७१॥
कच्चित् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा ।
कच्चित् अज्ञान-सम्मोहः प्रनष्टः ते धनञ्जय ॥७२॥
अर्जुनः उवाच ।
नष्टः मोहः स्मृतिः लब्धा त्वत् प्रसादात् मया अच्युत ।
स्थितः अस्मि गत-सन्देहः करिष्ये वचनम् तव ॥७३॥
सञ्जयः उवाच ।
इति अहम् वासुदेवस्य पार्थस्य च महात्मनः ।
संवादम् इमम् अश्रौषम् अद्भुतम् रोम-हर्षणम् ॥७४॥
व्यास-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् ।
योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥७५॥
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशव-अर्जुनयोः पुण्यम् हृष्यामि च मुहुः मुहुः ॥७६॥
तत् च संस्मृत्य संस्मृत्य रूपम् अति-अद्भुतम् हरेः ।
विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥७७॥
यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः ।
तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥७८॥
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे मोक्ष-संन्यास-योगः नाम अष्टादशः अध्यायः
हरि ऊँ तत्सत् हरि ऊँ तत्सत् हरि ऊँ तत्सत्
अध्यायः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८